वांछित मन्त्र चुनें

म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥

अंग्रेज़ी लिप्यंतरण

makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ | yad dha śuṣṇasya dambhayo jātaṁ viśvaṁ sayāvabhiḥ ||

पद पाठ

म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्न॑सः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥ १०.२२.११

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:11 | अष्टक:7» अध्याय:7» वर्ग:8» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर वज्रिवः-इन्द्र) हे पराक्रमी ओजस्वी परमात्मन् ! या वज्रास्त्रवाले राजन् ! (ते दानाप्नसः) तेरे मोक्ष दान कर्मवाले या रक्षण कर्मवाले के (ता) वे दानकर्म (आक्षाणे मक्षु) व्याप्त होते हुए तेरे स्वरूप या मोक्ष में तथा हे राजन् ! तेरे प्रवर्तमान संग्राम में तुरन्त (शुष्णस्य यत्-ह विश्वं जातम्) शोषण करनेवाले पाप शत्रु के समस्त प्रसिद्धरूप या बल को (सयावभिः-दम्भयः) जो समान जाते हैं, उपासकों में प्राप्त स्वसमान गुणों द्वारा या समान योद्धाओं द्वारा नष्ट कर ॥११॥
भावार्थभाषाः - ओजस्वी तथा पराक्रमी परमात्मा या राजा अपने मोक्षप्रदायक कर्मों द्वारा रक्षण करता है। व्याप्त हुआ या प्राप्त हुआ शोषण करनेवाले पापों या शत्रुओं को वह नष्ट करता है ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर वज्रिवः-इन्द्र) हे पराक्रमिन् ओजस्विन् परमात्मन् वज्रास्त्रवन् राजन् वा ! (ते दानाप्नसः) तव मोक्षदानकर्मवतो रक्षणकर्मवतो वा “अप्सः कर्मनाम” [निघ० २।१] (ता) तानि दानकर्माणि रक्षणकर्माणि वा (आक्षाणे मक्षु) आश्नुवाने व्याप्नुवाने तव परमात्मन् तव स्वरूपे मोक्षे, तथा राजन् ! तव प्रवर्तमाने सङ्ग्रामे वा ‘आक्षाणः-आश्नुवानः” [निरु० ३।१०] ‘अशूङ् व्याप्तौ ततः शानचि सिप् च बहुलं छन्दसि’ “सिब्बहुलं लेटि” [अष्टा० ३।१।३४] बहुलग्रहणादन्यत्रापि भवति, मक्षु सद्यः-एव (शुष्णस्य यत्-ह विश्वं जातम्) शोषयितुः-पापस्य शत्रोर्वा “शुष्णस्य शोषयितुः” [निरु० ५।१६] “शुष्णस्य शोशकस्य शत्रोः” [ऋ० १।१२१।१० दयानन्दः] यत् खलु समस्तं प्रसिद्ध रूपं बलं वा तत् (सयावभिः-दम्भयः) “ये समानं यान्ति ते सयावानस्तैः” [ऋ० १।४४।१३ दयानन्दः] स्वसमानगुणैरुपासके प्राप्तैर्यद्वा स्वसमान-योद्धृभिर्नाशय-नाशयसि वा। “दम्भय-छिन्धि” [ऋ० १।५४।६ दयानन्दः] ॥११॥